४.६६.२

तस्य संस्तूयमानस्य सर्वैर्वानरपुंगवैः ।
तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ॥

अन्वयः

सर्वैः by all, वानरपुङ्गवैः by monkey leaders, संस्तूयमानस्य of him being praised, तेजसा with lustre, पूर्यमाणस्य who was filled, तस्य his, रूपम् body, अनुत्तमम् excellent, आसीत् became.

M N Dutt

As, extolled by the principal derly monkeys, he became fraught with effulgence, his beauty as great. .

Summary

As Hanuman was being praised by the monkey leaders, his body filled with lustre. It looked excellent.

पदच्छेदः

तस्यतद् (६.१)
संस्तूयमानस्यसंस्तूयमान (√सम्-स्तु + शानच्, ६.१)
सर्वैर्सर्व (३.३)
वानरपुंगवैःवानर–पुंगव (३.३)
तेजसापूर्यमाणस्यतेजस् (३.१)–आपूर्यमाण (√आ-पृ + शानच्, ६.१)
रूपम्रूप (१.१)
आसीद्आसीत् (√अस् लङ् प्र.पु. एक.)
अनुत्तमम्अनुत्तम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य सं स्तू मास्य
र्वै र्वा पुं वैः
ते सा पूर्य मास्य
रू मा सी नुत्त मम्