४.६६.२२

भविष्यति हि मे रूपं प्लवमानस्य सागरम् ।
विष्णोः प्रक्रममाणस्य तदा त्रीन्विक्रमानिव ॥

अन्वयः

सागरे in the ocean, प्लवमानस्य while I am leaping over, मे my, रूपम् form, पुरा earlier, त्रीन् three, विक्रमान् strides, प्रक्रममाणस्य who advanced, विष्णोः इव like Visnu, भविष्यति will be

M N Dutt

And at the time of leaping over the ocean, my form shall resemble that of the energizing Vişņu, when He had assumed the triune energy.

पदच्छेदः

भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
हिहि (अव्ययः)
मेमद् (६.१)
रूपंरूप (१.१)
प्लवमानस्यप्लवमान (√प्लु + शानच्, ६.१)
सागरम्सागर (२.१)
विष्णोःविष्णु (६.१)
प्रक्रममाणस्यप्रक्रममाण (√प्र-क्रम् + शानच्, ६.१)
तदातदा (अव्ययः)
त्रीन्त्रि (२.३)
विक्रमान्विक्रम (२.३)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विष्यतिहि मे रू पं
प्ल मास्य सा रम्
वि ष्णोः प्रक्र मास्य
दा त्री न्विक्र मानि