४.६६.२३

बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा ।
अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः ॥

अन्वयः

प्लवङ्गमाः O monkeys, अहम् I, बुद्ध्या with my intellect, प्रपश्यामि I can visualise, मे my, मनश्चेष्टा च my feeling in mind, तथा so also, अहम् I am, वैदेहीम् Vaidehi, द्रक्ष्यामि I will see, प्रमोदध्वम् be happy.

M N Dutt

I perceive through my intelligence, (and my mental motion tallies), that I shall behold Vaidehi. Therefore, you monkeys, rejoice.

Summary

'O monkeys I have a feeling in my mind that I will see Vaidehi. Be happy.

पदच्छेदः

बुद्ध्याबुद्धि (३.१)
चाहं (अव्ययः)–मद् (१.१)
प्रपश्यामिप्रपश्यामि (√प्र-पश् लट् उ.पु. )
मनश्चेष्टामनस्–चेष्टा (१.१)
(अव्ययः)
मेमद् (६.१)
तथातथा (अव्ययः)
अहंमद् (१.१)
द्रक्ष्यामिद्रक्ष्यामि (√दृश् लृट् उ.पु. )
वैदेहींवैदेही (२.१)
प्रमोदध्वंप्रमोदध्वम् (√प्र-मुद् लोट् म.पु. द्वि.)
प्लवंगमाःप्लवंगम (८.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

बु द्ध्या चा हंप्र श्यामि
श्चे ष्टा मे था
हं द्र क्ष्यामि वै दे हीं
प्र मो ध्वंप्ल वं माः