४.६६.६

अरुजन्पर्वताग्राणि हुताशनसखोऽनिलः ।
बलवानप्रमेयश्च वायुराकाशगोचरः ॥

अन्वयः

हुताशनसखः friend of fire, हुताशन the consumer of oblations, बलवान् powerful one, अप्रमेयः च and immesurable, आकाशगोचरः one who wanders in the sky, अनिलः fire, वायुः wind, सर्वताग्राणि mountain tops, अरुजत् shattered.

Summary

'The Windgod is a friend of fire who is a powerful consumer of oblations. His strength is immeasurable. He wanders in the sky and shatters the mountain tops.

पदच्छेदः

अरुजन्अरुजत् (१.१)
पर्वताग्राणिपर्वत–अग्र (२.३)
हुताशनसखोहुताशन–सख (१.१)
ऽनिलःअनिल (१.१)
बलवान्बलवत् (१.१)
अप्रमेयश्चअप्रमेय (१.१)–च (अव्ययः)
वायुर्वायु (१.१)
आकाशगोचरःआकाश–गोचर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रु न्पर्व ता ग्राणि
हु ता खोऽनि लः
वाप्र मेश्च
वायु रा का गो रः