४.७.१०

बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ।
स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥

अन्वयः

यः नरः which man, बालिशः foolish, नित्यम् always, वैक्लब्यम् despair, अनुवर्तते gives in for, सः he, अवशं he loses selfcontrol, भाराक्रान्ता burdened, नौः boat, जले इव as in the water, शोके in grief, मज्जति gets sunk

M N Dutt

He that is senseless as well as he that suffers himself to be overwhelmed with grief, losing all control over self, drown themselves in sorrow like a boat bearing a heavy load in water.

पदच्छेदः

बालिशस्बालिश (१.१)
तुतु (अव्ययः)
नरोनर (१.१)
नित्यंनित्यम् (अव्ययः)
वैक्लव्यंवैक्लव्य (२.१)
योयद् (१.१)
ऽनुवर्ततेअनुवर्तते (√अनु-वृत् लट् प्र.पु. एक.)
तद् (१.१)
मज्जत्य्मज्जति (√मज्ज् लट् प्र.पु. एक.)
अवशःअवश (१.१)
शोकेशोक (७.१)
भाराक्रान्तेवभार–आक्रान्त (√आ-क्रम् + क्त, १.१)–इव (अव्ययः)
नौर्नौ (१.१)
जलेजल (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

बालिस्तु रो नि त्यं
वै क्ल व्यं योऽनुर्त ते
ज्जत्य शः शो के
भा रा क्रा न्ते नौर्ज ले