४.७.२२

ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह ।
राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ॥

अन्वयः

ततः then, सचिवैः with his counsellers, वानरैः सह with monkeys, सुग्रीवः Sugriva, राघवस्य Raghava's, वचः words, श्रुत्वा hearing, विशेषतः specially, प्रतिज्ञातम् his own promise, प्रहृष्टः felt glad

M N Dutt

Hearing Rāghava's words, and in special his promise, Sugrīva felt exceedingly delighted along with this monkey ministers.

Summary

Sugriva and his counsellors felt glad on hearing Rama's words, particularly the assurance given by him.

पदच्छेदः

ततःततस् (अव्ययः)
प्रहृष्टःप्रहृष्ट (√प्र-हृष् + क्त, १.१)
सुग्रीवोसुग्रीव (१.१)
वानरैःवानर (३.३)
सचिवैःसचिव (३.३)
सहसह (अव्ययः)
राघवस्यराघव (६.१)
वचःवचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
प्रतिज्ञातंप्रतिज्ञात (√प्रति-ज्ञा + क्त, २.१)
विशेषतःविशेषतः (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःप्र हृ ष्टः सु ग्री वो
वा रैःचि वैः
रास्य चः श्रु त्वा
प्र ति ज्ञा तंवि शे तः