४.८.११

ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् ।
सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् ॥

अन्वयः

ततः then, सुग्रीवः Sugriva, स्थितम् standing, रामम् Rama, महाबलम् strong, लक्ष्मणं च Lakshmana also, दृष्ट्वा after seeing, लोलम् moving unsteadily, चक्षुः his eyes, वने in the forest, सर्वतः all sides, अपातयत् cast.

M N Dutt

The next day seeing Rāma as well as the mighty Lakşmaņa seated on the ground, Sugrīva briskly cast his eyes about the forest.

Summary

With mighty Rama and Lakshmana standing by, Sugriva cast his eyes eagerly all round the forest.

पदच्छेदः

ततोततस् (अव्ययः)
रामंराम (२.१)
स्थितंस्थित (√स्था + क्त, २.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
लक्ष्मणंलक्ष्मण (२.१)
(अव्ययः)
महाबलम्महत्–बल (२.१)
सुग्रीवःसुग्रीव (१.१)
सर्वतश्सर्वतस् (अव्ययः)
चक्षुर्चक्षुस् (२.१)
वनेवन (७.१)
लोलम्लोल (२.१)
अपातयत्अपातयत् (√पातय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो रा मंस्थि तं दृ ष्ट्वा
क्ष्म णं हा लम्
सु ग्री वःर्व श्चक्षु
र्व ने लो पा यत्