४.८.१२

स ददर्श ततः सालमविदूरे हरीश्वरः ।
सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम् ॥

अन्वयः

ततः then, सः हरीश्वरः chief of monkeys, अविदूरे not very far, सुपुष्पम् having flowers, ईषत्पत्राढ्यम् with a few leaves, भ्रमरैः by bees, उपशोभितम् looking graceful, सालम् sala tree, ददर्श saw.

M N Dutt

And hard by that lord of monkeys discovered a Sāla tree, bearing a few beautiful blossoms, with its wealth of foliage, decked by black bees.

Summary

Then the chief of monkeys saw a sala tree looking lovely with tender leaves and flowers graced by bees.

पदच्छेदः

तद् (१.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
ततःततस् (अव्ययः)
सालम्साल (२.१)
अविदूरेअविदूर (७.१)
हरीश्वरःहरि–ईश्वर (१.१)
सुपुष्पम्सुपुष्प (२.१)
ईषत्पत्त्राढ्यंईषत् (अव्ययः)–पत्त्र–आढ्य (२.१)
भ्रमरैर्भ्रमर (३.३)
उपशोभितम्उपशोभित (√उप-शोभय् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्श तः सा
वि दू रे रीश्व रः
सु पुष्प मी त्प त्रा ढ्यं
भ्र रैरु शोभि तम्