४.८.३५

केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे ।
अतोऽहं धारयाम्यद्य प्राणान्कृच्छ्र गतोऽपि सन् ॥

अन्वयः

केवलम् only, इमे these, हनुमत्प्रमुखाः Hanuman and other chiefs, मे to me, सहायाः helpful ones, अतः therefore, अहम् I, कृच्छ्रगतोऽपि सन् in spite of all difficulties, अद्य now, प्राणान् life, धारयामि I am surviving.

M N Dutt

My adherents are only these headed by Hanumān. It is for this that although reduced to the greatest straits I have been able to preserve my life.

Summary

'Only Hanuman and other chiefs are helping me. Therefore, I am surviving in spite of all difficulties.

पदच्छेदः

केवलंकेवल (२.१)
हिहि (अव्ययः)
सहायासहाय (१.३)
मेमद् (६.१)
हनुमत्प्रमुखास्हनुमन्त्–प्रमुख (१.३)
त्व्तु (अव्ययः)
इमेइदम् (१.३)
अतोअतस् (अव्ययः)
ऽहंमद् (१.१)
धारयाम्य्धारयामि (√धारय् लट् उ.पु. )
अद्यअद्य (अव्ययः)
प्राणान्प्राण (२.३)
कृच्छ्रगतोकृच्छ्र–गत (√गम् + क्त, १.१)
ऽपिअपि (अव्ययः)
सन्सत् (√अस् + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

के लंहि हा या मे
नुत्प्रमु खास्त्वि मे
तो ऽहं धा या म्यद्य
प्रा णा न्कृच्छ्र तोऽपि सन्