४.८.४०

श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत् ।
किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ॥

अन्वयः

रामः Rama, एतत् these, वचः words, श्रुत्वा hearing, सुग्रीवम् to Sugriva, इदम् these words, अब्रवीत् he spoke, किं निमित्तम् for what reason, वैरम् enmity, अभूत् was caused, तत्त्वतः truly, श्रोतुम् to hear, इच्छामि I wish

M N Dutt

Hearing these words, Rāma said to Sugrīva, What for arose hostility between yourself and Vāli? I wish to hear this (related) faithfully.

Summary

After hearing Sugriva, Rama said 'I wish to know the actual cause of this enmity.

पदच्छेदः

श्रुत्वैतच्श्रुत्वा (√श्रु + क्त्वा)–एतद् (२.१)
(अव्ययः)
वचोवचस् (२.१)
रामःराम (१.१)
सुग्रीवम्सुग्रीव (२.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
किंनिमित्तम्किंनिमित्त (२.१)
अभूद्अभूत् (√भू प्र.पु. एक.)
वैरंवैर (१.१)
श्रोतुम्श्रोतुम् (√श्रु + तुमुन्)
इच्छामिइच्छामि (√इष् लट् उ.पु. )
तत्त्वतःतत्त्व (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रु त्वैच्च चो रा मः
सु ग्रीमिब्र वीत्
किंनि मित्त भू द्वै रं
श्रोतु मि च्छामित्त्व तः