४.९.१

वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः ।
पितुर्बहुमतो नित्यं मम चापि तथा पुरा ॥

अन्वयः

शत्रुनिषूदनः an exterminater of enemies, वाली नाम called Vali , मम my, ज्येष्ठः भ्राता elder brother, नित्यम् always, पितुः father, बहुमतः very highly regarded, पुरा earlier, मम चापि even me also, तथा that way.

M N Dutt

My elder brother named Väli-destroyer of foes, was formerly highly, honoured both by my father and myself.

Summary

'My elder brother called Vali, capable of exterminating enemies was always highly regarded by my father and me.

पदच्छेदः

वालीवालिन् (१.१)
नामनाम (अव्ययः)
मममद् (६.१)
भ्राताभ्रातृ (१.१)
ज्येष्ठःज्येष्ठ (१.१)
शत्रुनिषूदनःशत्रु–निषूदन (१.१)
पितुर्पितृ (६.१)
बहुमतोबहु–मत (√मन् + क्त, १.१)
नित्यंनित्यम् (अव्ययः)
मममद् (६.१)
चापि (अव्ययः)–अपि (अव्ययः)
तथातथा (अव्ययः)
पुरापुरा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वा ली ना भ्रा ता
ज्ये ष्ठःत्रुनि षू नः
पि तुर्बहु तो नि त्यं
चापि थापु रा