४.९.२०

गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् ।
ततोऽहं तैः समागम्य समेतैरभिषेचितः ॥

पदच्छेदः

गूहमानस्यगूहमान (√गुह् + शानच्, ६.१)
मेमद् (६.१)
तत्त्वंतत्त्व (१.१)
यत्नतोयत्न (५.१)
मन्त्रिभिःमन्त्रिन् (३.३)
श्रुतम्श्रुत (√श्रु + क्त, १.१)
ततोततस् (अव्ययः)
ऽहंमद् (१.१)
तैःतद् (३.३)
समागम्यसमागम्य (√समा-गम् + ल्यप्)
समेतैर्समेत (√समा-इ + क्त, ३.३)
अभिषेचितःअभिषेचित (√अभि-सेचय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गू मास्य मे त्त्वं
त्न तोन्त्रि भिःश्रु तम्
तो ऽहं तैः माम्य
मे तैभि षेचि तः