४.९.२४

मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् ।
उक्ताश्च नाशिषस्तेन संतुष्टेनान्तरात्मना ॥

अन्वयः

मे भ्राता my brother, सः he, शत्रुम् enemy, हत्वा after killing, तदा then, पुरम् town, प्रविवेश he entered, महात्मानम् great man, तम् him, मानयन् while I respected, यथावत् as usual, अभ्यवादयम् I offered salutations, तेन by him, सन्तुष्टेन gladly, अन्तरात्मना wholeheartedly, आशिषः blessings, नोक्ताः were not pronounced.

M N Dutt

Having slain his foe, he then entered his city; and I, honouring that high-souled one, duly saluted him. He withal did not with a glad heart utter his benediction.

Summary

'When my brother came back to the town after killing the enemy, I offered as usual my salutations to him. But he did not bless me wholeheartedly.

पदच्छेदः

मानयंस्मानयत् (√मानय् + शतृ, १.१)
तंतद् (२.१)
महात्मानंमहात्मन् (२.१)
यथावच्यथावत् (अव्ययः)
चाभ्यवादयम् (अव्ययः)–अभ्यवादयम् (√अभि-वादय् लङ् उ.पु. )
उक्ताश्उक्त (√वच् + क्त, १.३)
(अव्ययः)
नाशिषस् (अव्ययः)–आशिस् (१.३)
तेनतद् (३.१)
संतुष्टेनान्तरात्मनासंतुष्ट (√सम्-तुष् + क्त, ३.१)–अन्तरात्मन् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा यं स्तं हा त्मा नं
था च्चाभ्य वा यम्
क्ताश्च नाशि स्ते
सं तु ष्टे नान्त रात्म ना