४.९.३

राज्यं प्रशासतस्तस्य पितृपैतामहं महत् ।
अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत्स्थितः ॥

अन्वयः

अहम् I, महत् great, पितृपैतामहम् inherited from ancestors, राज्यम् kingdom, प्रशासतः while he was ruling, तस्य his, सर्वेषु कालेषु at all times, प्रेष्यवत् like a servant, प्रणतः an obedient one, स्थितः remained.

M N Dutt

While he was governing the kingdom which had belonged to his father and grand-father, I, at all times, in humiliation, remained like a servant.

Summary

'I served him obediently like a servant while he ruled over the great ancestral kingdom inherited by him.

पदच्छेदः

राज्यंराज्य (२.१)
प्रशासतस्प्रशासत् (√प्र-शास् + शतृ, ६.१)
तस्यतद् (६.१)
पितृपैतामहंपितृपैतामह (२.१)
महत्महत् (२.१)
अहंमद् (१.१)
सर्वेषुसर्व (७.३)
कालेषुकाल (७.३)
प्रणतःप्रणत (√प्र-नम् + क्त, १.१)
प्रेष्यवत्प्रेष्य–वत् (अव्ययः)
स्थितःस्थित (√स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा ज्यंप्र शा स्तस्य
पितृ पै ता हं हत्
हं र्वेषु का लेषु
प्र तः प्रेष्यत्स्थि तः