५.१.१११

स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् ।
ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥

अन्वयः

सः he, देवराट् Indra, क्रुद्धः in wrath, वज्रम् thunderbolt, उद्यम्य held, माम् to me, उपागतः came, ततः then, अहम् I, महात्मना by the great self, श्वसनेन by the Windgod, सहसा at once, क्षिप्तः dropped down.

M N Dutt

When with his thunderbolt, the Lord of celestials, wroth, approached me, I was all on a sudden thrown down by the high-souled Wind.

पदच्छेदः

तद् (१.१)
माम्मद् (२.१)
उपगतःउपगत (√उप-गम् + क्त, १.१)
क्रुद्धोक्रुद्ध (√क्रुध् + क्त, १.१)
वज्रम्वज्र (२.१)
उद्यम्यउद्यम्य (√उत्-यम् + ल्यप्)
देवराट्देवराज् (१.१)
ततोततस् (अव्ययः)
ऽहंमद् (१.१)
सहसासहस् (३.१)
क्षिप्तःक्षिप्त (√क्षिप् + क्त, १.१)
श्वसनेनश्वसन (३.१)
महात्मनामहात्मन् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मामु तः क्रु द्धो
ज्र मु द्यम्य दे राट्
तो ऽहं सा क्षि प्तः
श्व ने हात्म ना