५.१.११३

ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः ।
त्वया मे ह्येष संबन्धः कपिमुख्य महागुणः ॥

अन्वयः

कपिमुख्य O esteemed vanara, मारुतः Windgod, मम my, मान्यः हि revered one, ततः therefore, अहम् I, त्वाम् you, मानयामि I will honour you, त्वया by you, मे to me, एषः this, सम्बन्धः relationship, महागुणः is great.

M N Dutt

I shall therefore adore you and you are object of my worship O Maruta! And this my relation with you, O foremost of monkeys, is pregnant with many virtues.

Summary

"O esteemed vanara the Windgod is revered by me and so I honour you. O chief of monkeys, my bondage with you is therefore of high value to me, indeed.

पदच्छेदः

ततोततस् (अव्ययः)
ऽहंमद् (१.१)
मानयामिमानयामि (√मानय् लट् उ.पु. )
त्वांत्वद् (२.१)
मान्योमान्य (√मन् + कृत्, १.१)
हिहि (अव्ययः)
मममद् (६.१)
मारुतःमारुत (१.१)
त्वयात्वद् (३.१)
मेमद् (४.१)
ह्येषहि (अव्ययः)–एतद् (१.१)
संबन्धःसम्बन्ध (१.१)
कपिमुख्यकपि–मुख्य (८.१)
महागुणःमहत्–गुण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो ऽहं मा या मि त्वां
मा न्योहि मारु तः
त्व या मे ह्ये सं न्धः
पि मुख्य हागु णः