५.१.१३७

एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः ।
प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥

अन्वयः

सुरसया by Surasa,एवम् In that way, उक्तः spoken, श्रीमान् glorious, वानरर्षभः वहतत bull among vanaras, प्रहृष्टवदनः with a blooming face, प्राञ्जलिः with folded hands, इदं वचनम् these words, अब्रवीत् said.

Summary

Thus addressed by Surasa, the glorious Hanuman said this with a blooming face and folded hands:

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तःउक्त (√वच् + क्त, १.१)
सुरसयासुरसा (३.१)
प्राञ्जलिर्प्राञ्जलि (१.१)
वानरर्षभःवानर–ऋषभ (१.१)
प्रहृष्टवदनःप्रहृष्ट (√प्र-हृष् + क्त)–वदन (१.१)
श्रीमान्श्रीमत् (१.१)
इदंइदम् (२.१)
वचनम्वचन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तःसु या
प्राञ्ज लि र्वार्ष भः
प्र हृष्ट नः श्री मा
नि दंब्र वीत्