५.१.१४३

एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः ।
अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे ॥

अन्वयः

सुरसया by Surasa, एवम् in that way, उक्तः having been spoken to, वानरपुङ्गवः supreme vanara, क्रुद्धः got angry, अब्रवीत् he said, वक्त्रम् mouth, कुरु वै open, येन in such a way, माम् me, विषहिष्यसे you can bear me.

Summary

Thus addressed by Surasa, Hanuman the supreme vanara said, "Open your mouth wide enough to hold me."

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तःउक्त (√वच् + क्त, १.१)
सुरसयासुरसा (३.१)
क्रुद्धोक्रुद्ध (√क्रुध् + क्त, १.१)
वानरपुंगवःवानर–पुंगव (१.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
कुरुकुरु (√कृ लोट् म.पु. )
वैवै (अव्ययः)
वक्त्रंवक्त्र (२.१)
येनयद् (३.१)
मांमद् (२.१)
विषहिष्यसेविषहिष्यसे (√वि-सह् लृट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तःसु या
क्रु द्धो वा पुं वः
ब्र वीत्कुरु वै क्त्रं
ये मांवि हिष्य से