५.१.१४४

इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः ।
दशयोजनविस्तारो बभूव हनुमांस्तदा ॥

अन्वयः

तदा then, हनुमान् Hanuman, सुरसां Surasa, इति thus, उक्त्वा having said, क्रुद्धः angry, दशयोजनम् ten yojanas, आयतां wide, दशयोजनविस्तारः ten yojanas in breadth, बभूव became.

Summary

Provoked by the words of Surasa, Hanuman stretched himself to ten yojanas.

पदच्छेदः

इत्युक्त्वाइति (अव्ययः)–उक्त्वा (√वच् + क्त्वा)
सुरसांसुरसा (२.१)
क्रुद्धोक्रुद्ध (√क्रुध् + क्त, १.१)
दशयोजनम्दशन्–योजन (२.१)
आयतःआयत (√आ-यम् + क्त, १.१)
दशयोजनविस्तारोदशन्–योजन–विस्तार (१.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
हनुमांस्तदाहनुमन्त् (१.१)–तदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्यु क्त्वासु सां क्रु द्धो
यो मा तः
यो वि स्ता रो
भूनु मांस्त दा