५.१.१५१

स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः ।
तस्मिन्मुहूर्ते हनुमान्बभूवाङ्गुष्ठमात्रकः ॥

पदच्छेदः

तद् (१.१)
संक्षिप्यात्मनःसंक्षिप्य (√सम्-क्षिप् + ल्यप्)–आत्मन् (६.१)
कायंकाय (२.१)
जीमूतजीमूत (१.१)
इवइव (अव्ययः)
मारुतिःमारुति (१.१)
तस्मिन्मुहूर्तेतद् (७.१)–मुहूर्त (७.१)
हनुमान्हनुमन्त् (१.१)
बभूवाङ्गुष्ठमात्रकःबभूव (√भू लिट् प्र.पु. एक.)–अङ्गुष्ठ–मात्रक (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं क्षि प्यात्म नः का यं
जी मू मारु तिः
स्मिन्मु हू र्तेनु मा
न्ब भू वा ङ्गुष्ठ मात्र कः