५.१.१५६

तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥

अन्वयः

सुदुष्करम् very difficult, हनुमतः of Hanuman, तत् that, तृतीयं कर्म a third feat, दृष्ट्वा after witnessing, तदा then, भूतानि living beings, साधु साधु इति welldone, welldone this, हरिम् vanara, प्रशशंसुः applauded.

M N Dutt

Beholding this singularly arduous work of Hanumān the celestials, the Siddhas and the ascetics all praised him.

Summary

Gods, siddhas as well as the great sages praised him for the second great achievment of Hanuman, which is impossible for others to accomplish.

पदच्छेदः

तत्तद् (२.१)
तृतीयंतृतीय (२.१)
हनुमतोहनुमन्त् (६.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
कर्मकर्मन् (२.१)
सुदुष्करम्सु (अव्ययः)–दुष्कर (२.१)
साधुसाधु (२.१)
साध्वितिसाधु (२.१)–इति (अव्ययः)
भूतानिभूत (१.३)
प्रशशंसुस्तदाप्रशशंसुः (√प्र-शंस् लिट् प्र.पु. बहु.)–तदा (अव्ययः)
हरिम्हरि (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्तृ ती यंनु तो
दृ ष्ट्वार्मसु दुष्क रम्
साधु साध्विति भू तानि
प्र शं सुस्त दा रिम्