५.१.१५७

स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।
जगामाकाशमाविश्य वेगेन गरुणोपमः ॥

अन्वयः

वेगेन speedily, गरुडोपमः like Garuda, सः he, अनाधृष्यम् invincible, वरुणालयम् abode of varuna, सागरम् ocean, अभ्येत्य piercing through, आकाशम् sky, आविश्य coursing, जगाम went.

Summary

Rising above the invincible ocean, the abode of lord Varuna, Hanuman coursed through the sky speedily like Garuda.

पदच्छेदः

तद् (१.१)
सागरम्सागर (२.१)
अनाधृष्यम्अनाधृष्य (२.१)
अभ्येत्यअभ्येत्य (√अभ्या-इ + ल्यप्)
वरुणालयम्वरुणालय (२.१)
जगामाकाशम्जगाम (√गम् लिट् प्र.पु. एक.)–आकाश (२.१)
आविश्यआविश्य (√आ-विश् + ल्यप्)
वेगेनवेग (३.१)
गरुडोपमःगरुड–उपम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा ना धृष्य
भ्येत्यरु णा यम्
गा मा का मा विश्य
वे गेरु णो मः