५.१.१५८

सेविते वारिधारिभिः पतगैश्च निषेविते ।
चरिते कैशिकाचार्यैरैरावतनिषेविते ॥

पदच्छेदः

सेवितेसेवित (√सेव् + क्त, ७.१)
वारिधारिभिःवारि–धारिन् (३.३)
पतगैश्चपतग (३.३)–च (अव्ययः)
निषेवितेनिषेवित (√नि-सेव् + क्त, ७.१)
चरितेचरित (√चर् + क्त, ७.१)
कैशिकाचार्यैर्कैशिक–आचार्य (३.३)
ऐरावतनिषेवितेऐरावत–निषेवित (√नि-सेव् + क्त, ७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सेवि ते वारि धारि भिः
गैश्चनि षेवि ते
रि ते कैशि का चा र्यै
रै रानि षेवि ते