५.१.१५९

सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ।
विमानैः संपतद्भिश्च विमलैः समलंकृते ॥

पदच्छेदः

सिंहकुञ्जरशार्दूलपतगोरगवाहनैःसिंह–कुञ्जर–शार्दूल–पतग–उरग–वाहन (३.३)
विमानैःविमान (३.३)
संपतद्भिश्चसंपतत् (√सम्-पत् + शतृ, ३.३)–च (अव्ययः)
विमलैःविमल (३.३)
समलंकृतेसमलंकृत (√समलं-कृ + क्त, ७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सिं कुञ्ज शा र्दू
गो वा नैः
वि मा नैः सं द्भिश्च
वि लैः लंकृ ते