५.१.१६

स महासत्त्वसंनादः शैलपीडानिमित्तजः ।
पृथिवीं पूरयामास दिशश्चोपवनानि च ॥

अन्वयः

शैलपीडानिमित्तजः caused by the crushing of the mountain, सः that, महासत्त्वसन्नादः loud noise of various creatures, पृथिवीम् the earth, दिशश्च all directions, उपवनानि च and the surrounding groves, पूरयामास filled.

Summary

Due to the crushing of the mountain, a loud noise of the various creatures shot up filling the earth in all directions and groves around.

पदच्छेदः

तद् (१.१)
महासत्त्वसंनादःमहत्–सत्त्व–संनाद (१.१)
शैलपीडानिमित्तजःशैल–पीडा–निमित्त–ज (१.१)
पृथिवींपृथिवी (२.१)
पूरयामासपूरयामास (√पूरय् प्र.पु. एक.)
दिशश्चोपवनानिदिश् (२.३)–च (अव्ययः)–उपवन (२.३)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हात्त्व सं ना दः
शै पी डानि मित्त जः
पृथि वीं पू या मा
दि श्चो नानि