५.१.१७०

तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः ।
ददर्श स महासत्त्वमुत्थितं लवणाम्भसि ॥

अन्वयः

ततः then, कपिः monkey, तिर्यक् horizontally, ऊर्द्वम् upward, अथश्चैव at the bottom level, वीक्षमाणः while looking at, लवणाम्भसि in the salt sea, उत्थितम् risen up, महत् huge, सत्त्वम् being, ददर्श saw.

Summary

Looking around, right and left, up and down, the monkey saw a huge being rise from the salty sea.

पदच्छेदः

तिर्यग्तिर्यञ्च् (२.१)
ऊर्ध्वम्ऊर्ध्वम् (अव्ययः)
अधश्चैवअधस् (अव्ययः)–च (अव्ययः)–एव (अव्ययः)
वीक्षमाणस्ततःवीक्षमाण (√वि-ईक्ष् + शानच्, १.१)–ततस् (अव्ययः)
कपिःकपि (१.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
तद् (१.१)
महासत्त्वम्महत्–सत्त्व (२.१)
उत्थितंउत्थित (√उत्-स्था + क्त, २.१)
लवणाम्भसिलवणाम्भस् (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तिर्य गूर्ध्व श्चै
वीक्ष मास्त तः पिः
र्श हात्त्व
मुत्थि तं णाम्भसि