५.१.४३

ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः ।
प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥

अन्वयः

ऊरुवेगोद्धताः bent forward by the force of his thighs, वृक्षाः trees, दीर्घम् long, अध्वानम् path, प्रस्थितम् starting, स्वबन्धुम् one's kith and kin, बान्धवाः इव like the relatives, कपिम् Hanuman, मुहूर्तम् for a while, अन्वयुः followed.

Summary

Swept away by the force of his thighs, the trees bent forward following him for a while just as relatives accompany their kith and kin on long travel.

पदच्छेदः

ऊरुवेगोद्धताऊरु–वेग–उद्धत (√उत्-हन् + क्त, १.३)
वृक्षावृक्ष (१.३)
मुहूर्तंमुहूर्त (२.१)
कपिम्कपि (२.१)
अन्वयुःअन्वयुः (√अनु-या प्र.पु. बहु.)
प्रस्थितंप्रस्थित (√प्र-स्था + क्त, २.१)
दीर्घम्दीर्घ (२.१)
अध्वानंअध्वन् (२.१)
स्वबन्धुम्स्व–बन्धु (२.१)
इवइव (अव्ययः)
बान्धवाःबान्धव (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रु वे गोद्ध ता वृ क्षा
मु हू र्तंपिन्व युः
प्रस्थि तं दीर्घ ध्वा नं
स्वन्धुमि बान्ध वाः