५.१.५६

मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ।
संध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम् ॥

अन्वयः

तस्य his, ताम्रम् copperred, मुखम् face, ताम्रया by the red colour, नासिकया of the nose, सन्ध्यया by twilight, समभिस्पृष्टम् coming close, तत् that, सूर्यमण्डलं यथा like the Sun's orb, आबभौ appeared.

Summary

By the reflection of his copperyred nose, his face looked red like the Sun's orb coming close at twilight.

पदच्छेदः

मुखंमुख (१.१)
नासिकयानासिका (३.१)
तस्यतद् (६.१)
ताम्रयाताम्र (३.१)
ताम्रम्ताम्र (१.१)
आबभौआबभौ (√आ-भा लिट् प्र.पु. एक.)
संध्ययासंध्या (३.१)
समभिस्पृष्टंसमभिस्पृष्ट (√समभि-स्पृश् + क्त, १.१)
यथायथा (अव्ययः)
सूर्यस्यसूर्य (६.१)
मण्डलम्मण्डल (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु खं नासि यास्य
ताम्र या ताम्र मा भौ
संध्य या भि स्पृ ष्टं
था सू र्यस्यण्ड लम्