५.१.६५

सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् ।
अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥

अन्वयः

महावेगः very swift, सः that, महाकपिः great vanara, शैलवर्ष्मणाम् as mountains, सागरस्य of the ocean, ऊर्मिजालानाम् the rows of waves, उरसा by his chest, अभिघ्नन् while dashing against, पुप्लुवे flew.

M N Dutt

That mighty monkey possessed of exceeding speed rushed on, raising multitudes of surges on the sea by his breast resembling rock.

Summary

As the great vanara was flying swiftly, the oceanic waves in rows dashing against his chest rose as high as the mountain.

पदच्छेदः

सागरस्योर्मिजालानाम्सागर (६.१)–ऊर्मि–जाल (६.३)
उरसाउरस् (३.१)
शैलवर्ष्मणाम्शैल–वर्ष्मन् (६.३)
अभिघ्नंस्तुअभिघ्नत् (√अभि-हन् + शतृ, १.१)–तु (अव्ययः)
महावेगःमहत्–वेग (१.१)
पुप्लुवेपुप्लुवे (√प्लु लिट् प्र.पु. एक.)
तद् (१.१)
महाकपिःमहत्–कपि (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा स्योर्मि जा ला ना
मु सा शैर्ष्म णाम्
भि घ्नंस्तु हा वे गः
पुप्लु वे हा पिः