५.१.६६

कपिवातश्च बलवान्मेघवातश्च निःसृतः ।
सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥

अन्वयः

बलवान् forceful, कपिवातश्च wind generated by the swift movement of the monkey, निःसृतः rushing towards, मेघवातश्च and the wind of the clouds, भीम निर्घोषम् creating dreadful sounds, सागरम् ocean, भृशम् violently, कम्पयामासतुः both started agitating.

M N Dutt

And the wind begot of the monkey as well as that of the clouds, issuing out, made the dreadsounding ocean roll violently.

Summary

The forceful wind generated by the monkey moving swiftly, and by the clouds agitated the ocean violently, creating dreadful sounds.

पदच्छेदः

कपिवातश्चकपि–वात (१.१)–च (अव्ययः)
बलवान्मेघवातश्चबलवत् (१.१)–मेघ–वात (१.१)–च (अव्ययः)
निःसृतःनिःसृत (√निः-सृ + क्त, १.१)
सागरंसागर (२.१)
भीमनिर्घोषंभीम–निर्घोष (२.१)
कम्पयामासतुर्कम्पयामासतुः (√कम्पय् प्र.पु. द्वि.)
भृशम्भृशम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पि वाश्च वा
न्मे वाश्च निःसृ तः
सा रं भी नि र्घो षं
म्प या मा तुर्भृ शम्