५.१.७१

प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा ।
ववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥

अन्वयः

तदा then, त्वरितम् quickly, प्लवमानम् crossing, तं प्लवङ्गम् that monkey, दृष्ट्वा after seeing, देवगन्धर्वदानवाः deva, gandharvas and danavas, पुष्पवर्षाणि rain of flowers, ववर्षुः rained.

M N Dutt

Beholding that monkey engaged in bounding with celerity, gods, Gandharvas and Dānavas began to strew blossoms (on him).

Summary

Then seeing Hanuman crossing quickly, the gods, gandharvas and demons rained flowers on him.

पदच्छेदः

प्लवमानंप्लवमान (√प्लु + शानच्, २.१)
तुतु (अव्ययः)
तंतद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
प्लवगंप्लवग (२.१)
त्वरितंत्वरित (√त्वर् + क्त, २.१)
तदातदा (अव्ययः)
ववृषुःववृषुः (√वृष् लिट् प्र.पु. बहु.)
पुष्पवर्षाणिपुष्प–वर्ष (२.३)
देवगन्धर्वदानवाःदेव–गन्धर्व–दानव (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्ल मा नंतु तं दृ ष्ट्वा
प्ल गंत्वरि तं दा
वृ षुः पुष्प र्षाणि
दे न्धर्व दा वाः