५.१.७८

तथा मया विधातव्यं विश्रमेत यथा कपिः ।
शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति ॥

अन्वयः

कपिः monkey, यथा likewise, विश्रमेत he may take rest, तथा in that way, मया by myself, विधातव्यम् arrangement has to be made, मयि on me, विश्रान्तः the rest, शेषम् remaining, सुखेन comfortably, अतिपतिष्यति will leap over.

M N Dutt

It become me to do that by which the monkey may take rest in me and, relieved, may happily traverse the remaining way.

Summary

'I will have to make arrangements for his rest. Later he can resume his journey comfortably'.

पदच्छेदः

तथातथा (अव्ययः)
मयामद् (३.१)
विधातव्यंविधातव्य (√वि-धा + कृत्, १.१)
विश्रमेतविश्रमेत (√वि-श्रम् विधिलिङ् प्र.पु. एक.)
यथायथा (अव्ययः)
कपिःकपि (१.१)
शेषंशेष (२.१)
(अव्ययः)
मयिमद् (७.१)
विश्रान्तःविश्रान्त (√वि-श्रम् + क्त, १.१)
सुखेनातिपतिष्यतिसुख (३.१)–अतिपतिष्यति (√अति-पत् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था यावि धा व्यं
विश्र मे था पिः
शे षंयि वि श्रा न्तः
सु खे नाति तिष्यति