५.१.८७

चामीकरमहानाभ देवगन्धर्वसेवित ।
हनूमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति ॥

अन्वयः

चामीकरमहानाभ O goldenpeaked one, देवगन्धर्व सेवित resorted to by gods, gandharvas, हनुमान् Hanuman, त्वयि by you, विश्रान्तः resting, ततः then, शेषम् remaing part, गमिष्यति will cover.

Summary

"O goldenpeaked mountainyou are the refuge of the gods and gandharvas. Let him also rest on you for a while before he negotiates the remaining part of the journey.

पदच्छेदः

चामीकरमहानाभचामीकर–महानाभ (८.१)
देवगन्धर्वसेवितदेव–गन्धर्व–सेवित (√सेव् + क्त, ८.१)
हनूमांस्त्वयिहनुमन्त् (१.१)–त्वद् (७.१)
विश्रान्तस्ततःविश्रान्त (√वि-श्रम् + क्त, १.१)–ततस् (अव्ययः)
शेषंशेष (२.१)
गमिष्यतिगमिष्यति (√गम् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चा मी हा ना
दे न्धर्व सेवि
नू मांस्त्वयि वि श्रान्त
स्त तः शे षं मिष्यति