५.१.९३

जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयं प्रभैः ।
आदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः ॥

अन्वयः

स्वयंप्रभैः the selfeffulgent ones, भ्राजमानैः glittering , जातरूपमयैः golden, शृङ्गैः by the peak, सः that, गिरिसत्तमः noble mountain, आदित्यशतसङ्काशः like a thousand Suns, अभवत् appeared.

Summary

The noble mountain, Mainaka was glittering like a thousand Suns with selfeffulgent golden peaks shining.

पदच्छेदः

जातरूपमयैःजातरूप–मय (३.३)
शृङ्गैर्शृङ्ग (३.३)
भ्राजमानैःभ्राजमान (√भ्राज् + शानच्, ३.३)
स्वयंप्रभैःस्वयम्प्रभ (३.३)
आदित्यशतसंकाशःआदित्य–शत–संकाश (१.१)
सोतद् (१.१)
ऽभवद्अभवत् (√भू लङ् प्र.पु. एक.)
गिरिसत्तमःगिरि–सत्तम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

जा रू यैः शृ ङ्गै
र्भ्रा मा नैःस्व यंप्र भैः
दित्य सं का शः
सोऽभद्गिरित्त मः