५.१.९८

दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तम ।
निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् ॥

अन्वयः

वानरोत्तम O best of the vanaras, त्वम् you, दुष्करम् formidable, इदम् this, कर्म deed, कृतवान् accomplished, मम my, शृङ्गेषु on this peak, निपत्य alighting, यथासुखम् comfortably, विश्रमस्व you may rest.

M N Dutt

O best of monkeys, forsooth had you been engaged in this arduous task. Coming down on my peak do you take rest.

Summary

"O best of vanaras you have achieved a formidable deed. Alighting on my peak and comfortably resting awhile, you may resume your journey.

पदच्छेदः

दुष्करंदुष्कर (२.१)
कृतवान्कृतवत् (√कृ + क्तवतु, १.१)
कर्मकर्मन् (२.१)
त्वम्त्वद् (१.१)
इदंइदम् (२.१)
वानरोत्तमवानर–उत्तम (८.१)
निपत्यनिपत्य (√नि-पत् + ल्यप्)
मममद् (६.१)
शृङ्गेषुशृङ्ग (७.३)
विश्रमस्वविश्रमस्व (√वि-श्रम् लोट् म.पु. )
यथासुखम्यथासुखम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दुष्क रंकृ वा न्कर्म
त्वमि दं वा रोत्त
नित्य शृ ङ्गेषु
विश्रस्व थासु खम्