५.११.२७

पुत्रान्मृतान्समीक्ष्याथ न भविष्यन्ति मातरः ।
कौसल्या च सुमित्रा च कैकेयी च न संशयः ॥

अन्वयः

अथ then, मातरः mothers, कौसल्या च and Kausalya, सुमित्रा च even Sumitra, कैकेयी च even Kaikeyi, पुत्रान् of sons, मृतान् of their death, समीक्ष्य on seeing, न भविष्यन्ति will not be able to live, संशयः न no doubt.

M N Dutt

And beholding their sons dead, their mothers, Kausalya, Sumitra and kaikayi, shall, certainly, resign their lives,

पदच्छेदः

पुत्रान्मृतान्पुत्र (२.३)–मृत (√मृ + क्त, २.३)
समीक्ष्याथसमीक्ष्य (√सम्-ईक्ष् + ल्यप्)–अथ (अव्ययः)
(अव्ययः)
भविष्यन्तिभविष्यन्ति (√भू लृट् प्र.पु. बहु.)
मातरःमातृ (१.३)
कौसल्याकौसल्या (१.१)
(अव्ययः)
सुमित्रासुमित्रा (१.१)
(अव्ययः)
कैकेयीकैकेयी (१.१)
(अव्ययः)
(अव्ययः)
संशयःसंशय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पु त्रान्मृ तान्स मी क्ष्या
वि ष्यन्ति मा रः
कौ ल्यासु मि त्रा
कै के यी सं यः