५.११.३७

घोरमारोदनं मन्ये गते मयि भविष्यति ।
इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥

अन्वयः

मयि गते when I go, इक्ष्वाकुकुलनाशश्च destruction of the Ikshvakus, वनौकसाम् of vanaras, नाशश्चैव destruction, घोरम् dreadful, आरोदनम् weeping, भविष्यति will be, मन्ये I think.

M N Dutt

I fancy that a loud wailing shall arise on my return (to that place); and the race of Iksvāku as well as the rangets of the woods shall meet with destruction.

Summary

"If I go there (without finding Sita), it will cause destruction of the Ikshvakus and vanaras would weep. It would be dreadful.

पदच्छेदः

घोरम्घोर (२.१)
आरोदनंआरोदन (२.१)
मन्येमन्ये (√मन् लट् उ.पु. )
गतेगत (√गम् + क्त, ७.१)
मयिमद् (७.१)
भविष्यतिभविष्यत् (√भू + कृत्, ७.१)
इक्ष्वाकुकुलनाशश्चइक्ष्वाकु–कुल–नाश (१.१)–च (अव्ययः)
नाशश्चैवनाश (१.१)–च (अव्ययः)–एव (अव्ययः)
वनौकसाम्वनौकस् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

घो मा रो नं न्ये
तेयि विष्यति
क्ष्वाकुकु नाश्च
ना श्चै नौ साम्