५.११.७

क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः ।
बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ॥

अन्वयः

रामबाणानाम् of the arrows of Rama, बिभ्यतः out of fear, रक्षसः the demon, सीताम् Sita, आदाय having brought, क्षिप्रम् at great speed, उत्पततः while flying, अन्तरा in the middle, पतिता dropped, भवेत् may be, मन्ये I think.

M N Dutt

I conceive that while taking Sītā, the Rākşasa darted upward, he being influenced by fear of Rāma's shafts; (and accordingly losing control over his movements), she fell off by the way.

Summary

"Or, perhaps she might have been dropped midway from the hold of Ravana while he was flying at great speed, afraid of the deadly arrows of Rama?

पदच्छेदः

क्षिप्रम्क्षिप्रम् (अव्ययः)
उत्पततोउत्पतत् (√उत्-पत् + शतृ, ६.१)
मन्येमन्ये (√मन् लट् उ.पु. )
सीताम्सीता (२.१)
आदायआदाय (√आ-दा + ल्यप्)
रक्षसःरक्षस् (६.१)
बिभ्यतोबिभ्यत् (√भी + शतृ, ६.१)
रामबाणानाम्राम–बाण (६.३)
अन्तराअन्तरा (अव्ययः)
पतितापतित (√पत् + क्त, १.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षिप्र मुत्प तो न्ये
सी ता मा दाक्ष सः
बिभ्य तो रा बा णा ना
न्त राति ता वेत्