५.१२.१४

तरस्विना ते तरवस्तरसाभिप्रकम्पिताः ।
कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥

अन्वयः

 तदा then, तरस्विना endowed with speed, कपिना by the monkey, तरसा speedily, अभिप्रकम्पिताः vigorously shaken, ते those, तरवः trees, विचित्राणि colourful, कुसुमानि flowers, ससृजुः showered.

M N Dutt

And shaken in diverse ways by the motion of the light fleeting monkey, the tree showered many-hued flowers.

Summary

Shaken vigorously by Hanuman of great speed, the trees shed their blooms of variegated colours.

पदच्छेदः

तरस्विनातरस्विन् (३.१)
तेतद् (१.३)
तरवस्तरसाभिप्रकम्पिताःतरु (१.३)–तरस् (३.१)–अभिप्रकम्पित (√अभिप्र-कम्प् + क्त, १.३)
कुसुमानिकुसुम (२.३)
विचित्राणिविचित्र (२.३)
ससृजुःससृजुः (√सृज् लिट् प्र.पु. बहु.)
कपिनाकपि (३.१)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्वि ना ते
स्त सा भिप्रम्पि ताः
कुसु मानिवि चि त्राणि
सृ जुःपि ना दा