५.१२.२२

वापीश्च विविधाकाराः पूर्णाः परमवारिणा ।
महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥

पदच्छेदः

वापीश्चवापी (२.३)–च (अव्ययः)
विविधाकाराःविविध–आकार (२.३)
पूर्णाःपूर्ण (२.३)
परमवारिणापरम–वारि (३.१)
महार्हैर्महार्ह (३.३)
मणिसोपानैर्मणि–सोपान (३.३)
उपपन्नास्ततस्ततःउपपन्न (√उप-पद् + क्त, २.३)–ततस् (अव्ययः)–ततस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वा पीश्चविवि धा का राः
पू र्णाः वारि णा
हा र्हैर्मणि सो पा नै
रु न्नास्तस्त तः