५.१२.५

स प्रविष्य विचित्रां तां विहगैरभिनादिताम् ।
राजतैः काञ्चनैश्चैव पादपैः सर्वतोवृताम् ॥

पदच्छेदः

तद् (१.१)
प्रविश्यप्रविश्य (√प्र-विश् + ल्यप्)
विचित्रांविचित्र (२.१)
तांतद् (२.१)
विहगैर्विहग (३.३)
अभिनादिताम्अभिनादित (√अभि-नादय् + क्त, २.१)
राजतैःराजत (३.३)
काञ्चनैश्चैवकाञ्चन (३.३)–च (अव्ययः)–एव (अव्ययः)
पादपैःपादप (३.३)
सर्वतोवृताम्सर्वतस् (अव्ययः)–वृत (√वृ + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र विष्यवि चि त्रां तां
वि गैभि नादि ताम्
रा तैः काञ्च नै श्चै
पा पैःर्व तोवृ ताम्