५.१३.११

नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा ।
अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम् ॥

M N Dutt

It was like the garden of Nandana or like that of Kubera or perhaps it surpassed the both in excellence.

पदच्छेदः

नन्दनंनन्दन (१.१)
विविधोद्यानंविविध–उद्यान (१.१)
चित्रंचित्र (१.१)
चैत्ररथंचैत्ररथ (१.१)
यथायथा (अव्ययः)
अतिवृत्तम्अतिवृत्त (√अति-वृत् + क्त, १.१)
इवाचिन्त्यंइव (अव्ययः)–अचिन्त्य (१.१)
दिव्यंदिव्य (१.१)
रम्यंरम्य (१.१)
श्रियाश्री (३.१)
वृतम्वृत (√वृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्द नंविवि धो द्या नं
चि त्रं चैत्र थं था
ति वृत्तमि वा चि न्त्यं
दि व्यं म्यंश्रि यावृ तम्