५.१३.३

तां स नन्दनसंकाशां मृगपक्षिभिरावृताम् ।
हर्म्यप्रासादसंबाधां कोकिलाकुलनिःस्वनाम् ॥

पदच्छेदः

तांतद् (२.१)
तद् (१.१)
नन्दनसंकाशांनन्दन–संकाश (२.१)
मृगपक्षिभिर्मृग–पक्षिन् (३.३)
आवृताम्आवृत (√आ-वृ + क्त, २.१)
हर्म्यप्रासादसंबाधांहर्म्य–प्रासाद–सम्बाध (२.१)
कोकिलाकुलनिःस्वनाम्कोकिल–आकुल–निःस्वन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तांन्द सं का शां
मृक्षिभि रावृ ताम्
र्म्य प्रा सा सं बा धां
कोकि लाकु निःस्व नाम्