५.१३.४

काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् ।
बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥

पदच्छेदः

काञ्चनोत्पलपद्माभिर्काञ्चन–उत्पल–पद्म (३.३)
वापीभिर्वापी (३.३)
उपशोभिताम्उपशोभित (√उप-शोभय् + क्त, २.१)
बह्वासनकुथोपेतांबहु–आसन–कुथ–उपेत (√उप-इ + क्त, २.१)
बहुभूमिगृहायुताम्बहु–भूमिगृह–आयुत (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

काञ्च नोत्प द्माभि
र्वा पीभिरु शोभि ताम्
ह्वाकु थो पे तां
हु भूमिगृ हायु ताम्