५.१३.३४

अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः ।
बाष्पाम्बुप्रतिपूर्णेन कृष्णवक्त्राक्षिपक्ष्मणा ।
वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः ॥

अन्वयः

मृगशाबाक्षीम् fawneyed, बाष्पाम्बुपरिपूर्णेन eyes filled with tears, कृष्णवक्राक्षिपक्ष्मणा with her dark and curved eyelashes, अप्रसन्नेन unhappy, वदनेन with her face, ततस्ततः here and there, वीक्षमाणम् looking, अबलाम् lady.

M N Dutt

With a displeased countenance, having darkblue and curling eye lashes, and eyes full of tears, she was sighing again and again.

Summary

The fawneyed lady was looking here and there with her dark, curved eyelashes. Her unhappy face was streaming with tears.

पदच्छेदः

अबलांअबला (२.१)
मृगशावाक्षींमृगशावाक्षी (२.१)
वीक्षमाणांवीक्षमाण (√वि-ईक्ष् + शानच्, २.१)
ततस्ततःततस् (अव्ययः)–ततस् (अव्ययः)
बाष्पाम्बुप्रतिपूर्णेनबाष्प–अम्बु–प्रतिपूर्ण (√प्रति-पृ + क्त, ३.१)
कृष्णवक्त्राक्षिपक्ष्मणाकृष्ण–वक्त्र–अक्षि–पक्ष्मन् (३.१)
वदनेनाप्रसन्नेनवदन (३.१)–अप्रसन्न (३.१)
निःश्वसन्तींनिःश्वसत् (√निः-श्वस् + शतृ, २.१)
पुनःपुनर् (अव्ययः)
पुनःपुनर् (अव्ययः)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
लांमृ शा वा क्षीं वीक्ष मा णां
स्त तः बा ष्पा म्बुप्रति पू र्णे
कृष्ण क्त्राक्षिक्ष्म णा ने ना
प्र न्ने निःश्व न्तींपु नःपु नः