५.१३.५

सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः ।
पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥

पदच्छेदः

सर्वर्तुकुसुमैसर्व–ऋतु–कुसुम (३.३)
रम्यैःरम्य (३.३)
फलवद्भिश्चफलवत् (३.३)–च (अव्ययः)
पादपैःपादप (३.३)
पुष्पितानाम्पुष्पित (६.३)
अशोकानांअशोक (६.३)
श्रियाश्री (३.१)
सूर्योदयप्रभाम्सूर्य–उदय–प्रभा (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्वर्तुकुसु मै म्यैः
द्भिश्च पा पैः
पुष्पि ता ना शो का नां
श्रि या सू र्योप्र भाम्