५.१३.५१

दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् ।
सीतां विना महाबाहुर्मुहूर्तमपि जीवति ॥

अन्वयः

यः he who, इमाम् such, मत्तकाशिनीम् a lady with intoxicating lustre, सीतां विना without Sita, मुहूर्तमपि even for a while, जीवति survives, महाबाहुः strongarmed, रामः Rama, दुष्करम् difficult, कुरुते is doing.

Summary

"Rama, the strongarmed hero has accomplished a difficult task by surviving even for a moment without this Sita who has intoxicating lustre".

पदच्छेदः

दुष्करंदुष्कर (२.१)
कुरुतेकुरुते (√कृ लट् प्र.पु. एक.)
रामोराम (१.१)
यद् (१.१)
इमांइदम् (२.१)
मत्तकाशिनीम्मत्तकाशिनी (२.१)
सीतांसीता (२.१)
विनाविना (अव्ययः)
महाबाहुर्महत्–बाहु (१.१)
मुहूर्तम्मुहूर्त (२.१)
अपिअपि (अव्ययः)
जीवतिजीवति (√जीव् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दुष्क रंकुरु ते रा मो
मांत्त काशि नीम्
सी तांवि ना हा बाहु
र्मु हूर्तपि जीति