५.१३.५२

एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः ।
जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥

M N Dutt

Having beheld Sītā in this plight, that son of the wind-god approached Rāma in mind and showered praises on his master.

पदच्छेदः

एवंएवम् (अव्ययः)
सीतांसीता (२.१)
तदातदा (अव्ययः)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
हृष्टःहृष्ट (√हृष् + क्त, १.१)
पवनसंभवःपवन–सम्भव (१.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
मनसामनस् (३.१)
रामंराम (२.१)
प्रशशंसप्रशशंस (√प्र-शंस् लिट् प्र.पु. एक.)
(अव्ययः)
तंतद् (२.१)
प्रभुम्प्रभु (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं सी तां दा दृ ष्ट्वा
हृ ष्टः सं वः
गा सा रा मं
प्र शं तंप्र भुम्