५.१४.२१

सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी ।
सहते यातनामेतामनर्थानामभागिनी ॥

M N Dutt

And that one of a golden hue, never used to afflictions and who was wont to converse always with a delighted countenance, has now been suffering incomparable miseries.

पदच्छेदः

सेयंतद् (१.१)–इदम् (१.१)
कनकवर्णाङ्गीकनक–वर्ण–अङ्ग (१.१)
नित्यंनित्यम् (अव्ययः)
सुस्मितभाषिणीसुस्मित–भाषिन् (१.१)
सहतेसहते (√सह् लट् प्र.पु. एक.)
यातनाम्यातना (२.१)
एताम्एतद् (२.१)
अनर्थानाम्अनर्थ (६.३)
अभागिनीअभागिन् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

से यं र्णा ङ्गी
नि त्यं सुस्मि भाषि णी
ते या ना मे ता
र्था ना भागि नी