५.१६.१६

ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् ।
शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥

अन्वयः

ततः then, मारुतात्मजः son of the Windgod, सः कपिः that vanara, परमस्त्रीणाम् of those chief wives, काञ्चीनिनादं च the sound of golden girdles with small bells, नूपुराणाम् of their anklets, निस्वनं च sound, शुश्राव heard.

M N Dutt

And that monkey, son of Maruta, heard the sound of kāñcīs and nūpuras of those excellent damsels.

Summary

Then Hanuman, son of the Windgod, heard their jingling golden girdles and anklets.

पदच्छेदः

ततःततस् (अव्ययः)
काञ्चीनिनादंकाञ्ची–निनाद (२.१)
(अव्ययः)
नूपुराणांनूपुर (६.३)
(अव्ययः)
निःस्वनम्निःस्वन (२.१)
शुश्रावशुश्राव (√श्रु लिट् प्र.पु. एक.)
परमस्त्रीणांपरम–स्त्री (६.३)
तद् (१.१)
कपिर्कपि (१.१)
मारुतात्मजःमारुतात्मज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः का ञ्चीनि ना दं
नूपु रा णां निःस्व नम्
शु श्रा स्त्री णां
पि र्मारु तात्म जः